Abhishtaprarthanashtakam
Ashtakam
1
कदा गोष्ठे गोष्ठक्षितिपगृहदेव्या किल तया सबाष्पं कुर्वत्या विलसति सुते लालनविधिम्। मुहुर्दृष्टं रोहिण्यपीहितनिवेशामवनतं निषेवे ताम्बूलैरहमपि विशाखाप्रियसखीम्॥
2
कदा गान्धर्वायां शुचि विरचयन्त्यां हरिकृते मुदा हारान्वृन्दैः सह सवयसामात्मसदने। विचित्य श्रीहस्ते मणिमिह मुहुः सम्पुटचया- दहो विन्यस्यन्ती सफलयति सेयं भुजलताम्॥
3
कदा लीलाराज्ये व्रजविपिनरूपे विजयिनी निजं भाग्यं साक्षादिह विदधती वल्लभतया। समन्ताद्क्रीडन्ती पिकमधुपमुख्याभिरभितः प्रजाभिः सञ्जुष्टा प्रमदयति सा मां मदधिपा॥
4
कदा कृष्णातीरे त्रिचतुरसखीभिः सममहो प्रसूनां गुम्फन्तीं रविसखसुतामानततया। समेत्य प्रच्छन्नं सपदि परिरिप्सोर्बकरिपो- र्निषेधे भ्रूभङ्गं भृशमनुभजेऽहम् व्यजनिनी॥
5
कदा शुभ्रे तस्मिन्पुलिनवलये रासमहसा सुवर्णाग्गीसङ्घेष्टहमहमिकामत्तमतिषु। हरौ याते नीलोत्पलनिकसतां जित्वरगुणा- द्गुणादस्मान्दिव्यद्रविणमिव राधा मदयति॥
6
कदा भाण्डीरस्य प्रथितरुचिरोत्सङ्गनिलये वरामध्यासीनं कुसुममयतूलीमतुलितम्। प्रिये चित्रं पत्रं लिखति निहितस्वङ्गलतिकां विशाखाप्राणालीं भजति दिशती वर्णकमसौ॥
7
कदा तुङ्गे तुङ्गे रहसि गिरिशृङ्गे व्रततिजा- न्प्रिये पूर्वा लीला निगमयति संस्तव्य निलयान्। मदेनाविष्पष्टं सकलितपदं व्रीडिततया द्रुतमौत्क्येनैषा विरचयति पृच्छां मम पुरः॥
8
गतिर्यन्मे नित्या यदखिलमपि स्वं सवयसाम् मदीश्वर्याः प्रेष्ठप्रणयकृतसौभाग्यवरिमा। हरेर्यत्प्रेमश्रीर्निवसतिरमुष्यस्तुलनया सदा तस्मिन्कुण्डे लसतु ललिताली मम दृशी॥
9
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां अभीष्टप्रार्थनाष्टकं सम्पूर्णम् ।॥