Shri Jaganmohanashtakam

Ashtakam

1

श्रीविश्वनाथचक्रवर्तिविरचितं गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम्। गोरोचनाचारुतमालपत्रं वन्दे जगन्मोहनमिष्टदेवम्॥

2

भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम्। नासाग्रराजन्मणिचारुमुक्तं वन्दे जगन्मोहनमिष्टदेवम्॥

3

आलोलवक्रालककान्तिचुम्बिगण्डस्थलप्रोन्नतचारहास्यम्। वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम्॥

4

बन्धूकबिम्बद्युतिनिन्दिकुञ्चत्प्रान्ताधरभ्राजितवेणुवक्त्रम्। किञ्चित्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम्॥

5

अकुण्ठरेखात्रयराजिकण्ठखेलत्स्वरालिश्रुतिरागराजिम्। वक्षःस्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम्॥

6

आजानुराजद्वलयाङ्गदाञ्चिस्मरार्गलाकारसुवृत्तबाहुम्। अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम्॥

7

श्वासैजदश्वत्थदलाभतुन्दमध्यस्थरोमावलिरम्यरेखम्। पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम्॥

8

व्यत्यस्तपादं मणिनूपुराढ्यं श्यामं त्रिभङ्गं सुरशाखिमूले। श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम्॥

9

श्रीमज्जगन्मोहनदेवमेतत्पद्याष्टकेन स्मरतो जनस्य। प्रेमा भवेद्येन तदङ्घ्रिसाक्षात्सेवामृतेनैव निमज्जनं स्यात्॥