Shachisutashtakam

Ashtakam

1

नवगौरवरं नवपुष्पशरं नवभावधरं नवलास्यपरम्। नवहास्यकरं नवहेमवरं प्रणमामि शचीसुतगौरवरम्॥

2

नवप्रेमयुतं नवनीतशुचं नववेशकृतं नवप्रेमरसम्। नवधा विलसत् शुभप्रेममयं प्रणमामि शचीसुतगौरवरम्॥

3

हरिभक्तिपरं हरिनामधरं करजप्यकरं हरिनामपरम्। नयने सततं प्रणयाश्रुधरं प्रणमामि शचीसुतगौरवरम्॥

4

सततं जनताभवतापहरं परमार्थपरायणलोकगतिम्। नवलेहकरं जगत्तापहरं प्रणमामि शचीसुतगौरवरम्॥

5

निजभक्तिकरं प्रियचारुतरं नटनर्तननागरराजकुलम्। कुलकामिनिमानसलास्यकरं प्रणमामि शचीसुतगौरवरम्॥

6

करतालवलं कलकण्ठरवं मृदुवाद्यसुवीणिकया मधुरम्। निजभक्तिगुणावृतनात्यकरं प्रणमामि शचीसुतगौरवरम्॥

7

युगधर्मयुतं पुनर्नन्दसुतं धरणीसुचित्रं भवभावोचितम्। तनुध्यानचितं निजवासयुतं प्रणमामि शचीसुतगौरवरम्॥

8

अरुणं नयनं चरणं वसनं वदने स्खलितं स्वकनामधरम्। कुरुते सुरसं जगतः जीवनं प्रणमामि शचीसुतगौरवरम्॥

9

इति सार्वभौमभट्टाछर्यविरचितं शचीसुताष्टकं सम्पूर्णम् ।॥