Halasyesha Ashtakam
Ashtakam
1
शैलाधीशसुतासहाय सकलाम्नायान्तवेद्य प्रभो! शूलोग्राग्रविदारितान्धक सुरारातीन्द्रवक्षस्थल। कालातीत! कलाविलास! कुशल त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
2
कोलाच्छच्छद्मरूपमाधव सुरज्येष्ठातिदूराङ्घ्रिक! नीलार्धाङ्ग! निवेशनिर्जरधुनीभास्वज्जटामण्डल!। कैलासाचलवास! कार्मुकहर! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
3
फालाक्षिप्रभवप्रभञ्जनसख प्रोद्यत्स्फुलिङ्गच्छटा- तूलानङ्गकचारुसंहनन सन्मीनेक्षणावल्लभ। शैलादिप्रमुखैर्गणैः स्तुतगुण त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
4
मालाकल्पितमालुधानफणसन्माणिक्यभास्वत्तनो मूलाधार! जगत्त्रयस्य मुरजिन्नेत्रारविन्दार्चित। सालाकारभुजासहस्र! गिरिश! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
5
बालादित्यसहस्रकोटिसदृशोद्यद्वेगवत्यापगा वेलाभूमिविहारनिष्ठ! विबुधस्रोतस्विनीशेखर!। बालावर्ण्यकवित्वभूमिसुखद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
6
कीलालावनिपावकानिलनभश्चन्द्रार्कयज्वाकृते! कीलानेकसहस्रसङ्कुलशिखिस्तम्भस्वरूपामित। चोळादीष्टगृहाङ्गनाविभवद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
7
लीलार्थाञ्जलिमेकमेव चरतां साम्राज्यलक्ष्मीप्रद! स्थूलाशेषचराचरात्मक जगत्स्थूणाष्टमूर्ते! गुरो!। तालाङ्कानुजफल्गुनप्रियकर! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
8
हालास्यागतदेवदैत्यमुनिसङ्गीतापदानक्वण- त्तूलाकोटिमनोहराङ्घ्रिकमलानन्दापवर्गप्रद। श्रीलीलाकर! पद्मनाभ! वरद! त्रायेत ते सन्ततं हालास्येश कृपाकटाक्षलहरी मामापदामास्पदम्॥
9
लीलानादरमोहतः कपटतो यद्वा कदम्बाटवी- हालास्याधिपतीष्टमष्टकमिदं सर्वेष्टसन्दोहनम्। आलापानफलान्विहाय सततं सङ्कीर्तयन्तीह ये ते लाक्षार्द्रपदाबलाभिरखिलान् भोगान् लभन्ते सदा॥