Navashtakam
Ashtakam
1
गौरीं गोष्ठवनेश्वरीं गिरिधरप्रानाधिकप्रेयसीं स्वीयप्राणपरार्धपुष्पपटलीनिर्मञ्छ्यतत्पद्धतिम्। प्रेम्णा प्रानवयस्यया ललितया संलालितां नर्मभिः सिक्तां सुष्ठु विशाखया भज मनो राधामगाधां रसैः॥
2
स्वीयप्रेष्ठसरोवरान्तिकवलत्कुञ्जान्तरे सौरभो- त्फुल्लत्पुष्पमरन्दलुब्धमधुपश्रेणीध्वनिभ्राजिते। माद्यन्मन्मथराज्यकार्यमसकृद्सम्भालयन्तीं स्मरा- मात्यश्रीहरिणा समं भज मनो राधामगाधां रसैः॥
3
कृष्णापङ्गतरङ्गतुङ्गिततरानङ्गासुरङ्गां गिरं भङ्ग्या लङ्गिमसङ्गरे विदधतीं भङ्गं नु तद्रङ्गिणः। फुल्लत्स्मेरसखीनिकायनिहितस्वाशीःसुधास्वादन लब्धोन्मादधुरोद्धुरां भज मनो राधामगाधां रसैः॥
4
जित्वा पाशककेलिसङ्गरतरे निर्वादबिम्बाधरं स्मित्वा द्विः पणितं धयत्यघहरे सानन्दगर्वोद्धुरे। ईषाछोणदृगन्तकोणमुदयद्रोमञ्चकम्पस्मितं निघ्नन्तीं कमलेन तं भज मनो राधामगाधां रसैः॥
5
अंसे न्यस्य करं परं बकरिपोर्बाढं सुसख्योन्मदां पश्यन्तीं नवकाननश्रियमिमामुद्यद्वसन्तोद्भवाम्। प्रीत्या तत्र विशाखया किशलयं नव्यं विकीर्णं प्रिय- श्रोत्रे द्राग्दधतीं मुदा भज मनो राधामगाधां रसैः॥
6
मिथ्यास्वापमनल्पपुष्पशयने गोवर्धनाद्रेर्गुहा- मध्ये प्राग्दधतो हरेर्मुरलिकां हृत्वा हरन्तीं स्रजम्। स्मित्वा तेन गृहीतकण्ठनिकटां भीत्यापसारोत्सुकां हस्ताभ्यां दमितस्तनीं भज मनो राधामगाधां रसैः॥
7
तूर्णं गाः पुरतो विधाय सखिभिः पूर्णं विशन्तं व्रजे घूर्णद्यौवतकाङ्क्षिताक्षिनटनैः पश्यन्तमस्या मुखम्। श्यामं श्यामदृगन्तविभ्रमभरैरान्दोलयन्तीतरां पद्माम्लानिकरोदयां भज मनो राधामगाधां रसैः॥
8
प्रोद्यत्कान्तिभरेण बल्लववधूताराः परार्धात्पराः कुर्वाणां मलिनः सदोज्ज्वलरसे रासे लसन्तीरपि। गोष्ठारण्यवरेण्यधन्यगगने गत्यानुराधाश्रितां गोविन्देन्दुविराजितां भज मनो राधामगाधां रसैः॥
9
प्रीत्या सुष्ठु नवाष्टकं पटुमतिर्भूमौ निपत्य स्फुटं काक्वा गद्गदनिस्वनेन नियतं पूर्णं पठेद्यः कृती। घूर्णन्मत्तमुकुन्दभृङ्गविलसद्राधासुधावल्लरीं सेवोद्रेकरसेण गोष्ठविपिने प्रेम्णा स तां सिञ्चति॥
10
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां नवाष्टकं सम्पूर्णम् ।॥