AdvaitashtakaM 2

Ashtakam

1

गङ्गातीरे तत्पयोभिस्तुलस्यः पत्रैः पुष्पैः प्रेमहुङ्कारघोषैः। प्राकट्यार्थं गौरमाराधयद्यः श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

2

यद्धुङ्करैः प्रेमसिन्धोर्विकारै- राकृष्टः सन् गौरगोलोकनाथः। आविर्भुतः श्रीनवद्वीपमध्ये श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

3

ब्रह्मादीमां दुर्लभप्रेमपूरै- रादिनां यः प्लावयामास लोकम्। आविर्भाव्य श्रीलचैतन्यचन्द्रं श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

4

श्रीचैतन्यः सर्वशक्तिप्रपूर्णो यस्यैवाजमात्रतोऽन्तर्ददेऽपि। दुर्विजेयं यस्य कारुण्यकृत्यं श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

5

सृष्टिस्थित्यन्तं विधातुं प्रवृत्त यस्यंसंसः ब्रह्मविष्ण्विश्वराख्याः। येनाभिन्नं तं महाविष्णुरूपं श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

6

कस्मिंश्चिद्यः श्रूयते चाश्रयत्वात् शम्भोरित्थं सम्भवन्नाम धाम। सर्वाराध्यं भक्तिमात्रैकसाध्यं श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

7

सीतानाम्नि प्रेयसी प्रेमपूर्ण पुत्रो यस्यऽप्यच्युतानन्दनाम। श्रीचैतन्यप्रेमपूरप्रपूर्णः श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

8

नित्यानन्दद्वैततोऽद्वैतनाम भक्त्याख्यानद्यः सदाचर्यनाम। शश्वच्चेतसाचरद्गौरधाम श्रीलाद्वैताचार्यमेतं प्रपद्ये॥

9

प्रातः प्रीतः प्रत्यहं संपठेद्यः सीतानाथस्यष्टकं शुद्धबुद्धिः। सोऽयं साम्यं तस्य पादारविन्दे विन्दन्भक्तिं तत्प्रियात्वं प्रयाति॥

10

इति सार्वभौम भट्टाचार्यविरचितं अद्वैताष्टकं सम्पूर्णम् ।॥