Kaveryashtakam Sahyakanyakashtakam
Ashtakam
1
सरोज-सम्भवाच्युत-त्रिनेत्र-भावनामयीं कवेर-राज-कन्यकां च कामितार्थ-दायिनीम्। अगस्त्य-कुण्डिकान्तर-प्रविष्ट-वारिरूपिणीं भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
2
पवित्र-धात्रि-वृक्षरूप-विष्णुपाद-सङ्गमां पतत्रिरूप-धारि-विघ्नराज-चुञ्चु-चुम्बिताम्। भवाब्धि-तारकात्रिसूनु-पादुका-पवित्रितां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
3
अनेक-कोटि-पुण्य-तीर्थ-सङ्गमेन पूरितां अनोकह-प्रकीर्ण-पुष्प-पल्लवैः परिष्कृताम्। निनाद-पूर्ण-चारु-वीचि-कीर्ण-रत्न-मौक्तिकां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
4
तटद्वयेपि शम्भु-विष्णु-मन्दिरै-र्विराजितां तटिल्लता-समान-देवसुन्दरीभि-राश्रिताम्। वटादि-वृक्ष-मूलवासि-मौनि-वृन्द-भावितां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
5
तरङ्ग-चारु-मेखलां विलोल-मीन-लोचनां प्रवाळ-मौक्तिकोज्ज्वलां प्रफुल्ल-पुष्प-मालिकाम्। कुचायिताब्ज-कुड्मलां च कुङ्कुमादि-पाटलां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
6
भुजङ्ग-शायि-रङ्गनाथ-पाद-सेवनाशया भुज-द्वयं प्रसार्य निःसृतामिव स्थितां मुदा। गजेन्द्र-केळि-वर्धिनीं द्विजेन्द्र-हर्ष-दायिनीं भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
7
किरीटि-राम-शन्तनु-प्रभृत्यनेक-पार्थिवैः प्रपूजितां च धर्मवर्म-राज-दाल्भ्य-कीर्तिताम्। धरातलैक-भूषणां सुरादि-सर्व-जीवनां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
8
प्रनष्ट-पञ्च-पातकां प्रकृष्ट-पुण्य-दायिकां सहर्ष-दिव्य-केळिकां समुद्र-राज-नायिकाम्। सहस्र-पत्र-मालिकां सरोज-पत्र-दोळिकां भजामि सह्यकन्यकां भजामि सह्यकन्यकाम्॥
9
सह्यकन्याष्टकमिदं पुण्यं प्रेमिकेन प्रकीर्तितम्। श्रद्धया कीर्तयन्नित्यं सर्वमङ्गळमाप्नुयात्॥