Shri Sheshadasa AryashtakaM

Ashtakam

1

सीतापतिं हरिजातं प्रणम्य मतिहेतुं सुखाय पवना- ज्ञातं बलाय पुरुहूतावातार जयतीर्थं धनार्थमनिशम्। पोतं श्रीसुधीन्द्रगुरुजातं तथैव मम तातं च जीवितकृते खातस्य रीतिमनुनितां करोमि कृतिमेतां तु शेषसुगुरोः॥

2

श्रीपार्थसूतपदजापाख्यमुक्तिपद सोपानमार्गद गुरुः पापात्मानां निखिलतापापनोदनतयास्पारसौख्यमधुहत। भूपालवर्यकृत कोपात्कदाचिदयमापाशु चिप्पशिखरं गोपलभक्तविजयोपाभिदस्य महिमापूरमज्जमदात्॥

3

दासार्यवर्य करुणासागरोपगतमीशाङ्घ्रिपद्म महिमा लेशामृताप्तिमति कोशः शुचीश इव भासाभिनन्द्य विबुधान्। देशानटन् खलकुलेशान् विचित्य रभसास्स्साध्य भक्तिभरितो व्यासार्य पन्नवपालाशे ननाम पथगेशो यथा मुरहरन्॥

4

क्रूरारि दुष्टमत वाराशि कुम्भसुतमाराद्य तद्वरयुतः सारं सुचिन्त्रवलिमारादुपेत्य कविवीरं भजन् कतिपयान्। वारानुवास गुरुराराधयन् सुजनवारं सुभोज्यधनतो दूरात्पिशाच्यपरिवारः प्रयाति खलु घोरोस्पि यत्स्मरणतः॥

5

जम्भारिदन्तिवर दम्भापहारि कुचकुम्भाञ्चितें द्ववरजा सम्भोगकाल परिरम्भाप्त कुङ्कुम वराम्भोरुहङ्करुचिरम्। अम्भोजनाभमति सम्भावनाय जगदम्बा कुमार वचनात् कुम्भीन्द्र कृत्तिधर शम्भोर्गिरिं जनकदम्बावृतो गुरुगरात्॥

6

रामं रघोः कुलललामं निशाटतति भीमं बलाहक इव श्यामं सतां सकल कामप्रदं तमिह सोमं सरोडुनिकरे। स्तौम्यम्बुजाक्षमिति वामं यथा सुजनधामास्तुवन् भगवतः प्रेमं प्रसाद्य बलसीमं समीरणमधोमाकळत्रमभजत॥

7

गङ्गां कदाचिदघ सङ्घाप हारक विहङ्गाधिप द्वजवरो- त्सङ्गावधिप्लुत तरङ्गां ददर्श भवभङ्गां जनैः परिवृतः। तुङ्गोपवासवृतरङ्गाधिपस्सुजनसङ्गी हरेर्गुणगणान् सङ्गीततो कथयदङ्गीचकार मृदुलाङ्गी रमा सुत इति॥

8

श्रीराघवेन्द्रगुरुमाराध्य मायदितिजारिं तदीयकरुणा धारोस्नुभूय सुखसारं किरीटि रथभारं वहन्तमदधत। श्रीरामवत् खलकुठारोपनीतिकृतिमाराध्विधाय सुशयो दूरं गतं भुवि दधाराथ नाकिपरिवारस्तुतोस्यमभवेत्॥

9

श्रीशेषवर्य हरिदासाग्रणेश्चरितमाशंसितं यलमळौ वासस्स्य विठ्ठलकृतीशस्य पूर्ण करुणाशावताह्यहरः। श्रीश्रीनिवास सुकविशेन पाठमनु मेशो ददाति सुसुतं वासो धनं च सुयशः शोभनं सुखमशेषः श्रुति स्मृति गतिम्॥

10

इति श्री टङ्कसालि श्रीनिवासाचार्य एवं श्रीरघुदान्त स्वामिनः विरचितं श्री शेषदासार्याष्टकं सम्पूर्णम्॥

11

श्रीकृष्णार्पणमस्तु॥