Shri Anubhavanandacharya Ashtakam
Ashtakam
1
रक्षकं वैष्णवानां च धर्मवारिधिवर्धकम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
2
रामानन्दकृतानन्दभाष्याब्जस्य प्रभाकरम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
3
भक्तिगङ्गाप्रवाहेण मुक्तिदं लोकपावनम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
4
विशिष्टान्द्वैतवादेन वादिवादापसारकम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
5
सर्वसिद्धिप्रदातारं सिद्धेन्द्रं सिद्धसेवितम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
6
मुद्रोर्ध्वपुण्ड्रमालादे रक्षकं परमं बुधम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
7
श्रीगीतार्थसुधाकारं सदाचारोपदेशकम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥
8
त्रयाणा च रहस्यानां भव्यव्याख्याविधायिनम्। नमाम्यनुभवानन्दं द्वाराचार्यं जगद्गुरुम्॥