Shri Dandayudhapani Ashtakam

Ashtakam

1

यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे- णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः। आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

2

श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैः नानादेशसमागतैरगणितैर्यः कावडीसम्भृतैः। भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम्॥

3

नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीः तासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात्। गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटं श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

4

दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणां कष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम्। शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधं श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

5

पूर्वं तारकसंज्ञक दितिसुतं यः शूरपद्मासुरं सिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपाखिलान्। श्रीवल्ल्या सहितश्च निस्तुलयशाः श्रीदेवसेन्या युतः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

6

यस्याङ्गस्थितरोमकूपनिकरे ब्रह्माण्डकोटिच्छटाः सौधाग्रस्थगवाक्षरन्ध्रविचरत्पीलूपमा एव ताः। लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

7

सद्योजातमुखैश्च पञ्चवदनैः शम्भोः सहैकं मुखं पार्वत्या मिलितं विभाति सततं यद्वक्त्रषट्कात्मना। तत्तादृक् च्छिवशक्त्यभेदविषयव्यक्त्युज्ज्वलाङ्गं वहन् श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

8

सत्यं ज्ञानमनन्तमद्वयमिति श्रुत्यन्तवाक्योदितं यद् ब्रह्मास्ति तदेव यस्य च विभोर्मूर्तेः स्वरूपं विदुः। योगीन्द्रा विमलाशया हृदि निजानन्दानुभूत्युन्नताः श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम्॥

9

इदं श्रीफलिनीदण्डायुधपाण्यष्टकस्तवम्। पठतामाशु सिध्यन्ति निखिलाश्च मनोरथाः॥

10

इति श्रीदण्डायुधपाण्यष्टकं सम्पूर्णम्॥