Durgaprasada Ashtakam
Ashtakam
1
वन्दे निर्बाधकरुणामरूणां शरणावनीम्। कामपूर्णजकाराद्यश्रीपीठान्तर्निवासिनीम्॥
2
प्रसिद्धां परमेशानीं नानातनुषु जाग्रतीम्। अद्वयानन्दसन्दोहमालिनीं श्रेयसे श्रये॥
3
जाग्रत्स्वप्नसुषुप्त्यादौ प्रतिव्यक्ति विलक्षणाम्। सेवे सैरिभसम्मर्दरक्षणेषु कृतक्षणाम्॥
4
तत्तत्कालसमुद्भूतरामकृष्णादिसेविताम्। एकधा दशधा क्वापि बहुधा शक्तिमाश्रये॥
5
स्तवीमि परमेशानीं महेश्वरकुटुम्बिनीम्। सुदक्षिणामन्नपूर्णां लम्बोदरपयस्विनीम्॥
6
मेधा-साम्राज्यदीक्षादिवीक्षारोहस्वरूपिकाम्। तामालम्बे शिवालम्बां प्रसादरूपिकाम्॥
7
अवामा वामभागेषु दक्षिणेष्वपि दक्षिणा। अद्वयापि द्वयाकारा हृदयाम्भोजगावतात्॥
8
मन्त्र भावनया दीप्तामवर्णां वर्णरूपिणीम्। परां कन्दलिकां ध्यायन् प्रसादमधिगच्छति॥