mahAprabhorAShTakam

Ashtakam

1

स्वरूप भवतो भवत्वयमिति स्मितस्निग्धया गिरैव रघुनाथमुत्पुलिकगात्रमुल्लासयन्। रहस्युपदिशन् निजप्रणयगूढमुद्रां स्वयं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

2

स्वरूप मम हृद्व्रणं बत विवेद रूपः कथं लिलेख यदयं पठ त्वमपि तालपत्रेऽक्षरम्। इति प्रणयवेल्लितं विदधदाशु रूपान्तरं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

3

स्वरूप परकीयसत्प्रवरवस्तुनाशेच्छतां दधज्जन इह त्वया परिचितो न वेतीक्षयन्। सनातनमुदित्य विस्मितमुखं महाविस्मितं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

4

स्वरूप हरिनाम यज्जगदघोषयं तेन किं न वाचयितुमप्यथाशकमिमं शिवानन्दजम्। इति स्वपदलेहनैः शिशुमचीकरद् यः कविं विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

5

स्वरूप रसरीतिरम्बुजदृशाम् व्रजे भण्यतां घनप्रणयमानजा श्रुतियुगं ममोत्कण्ठते। रमा यदिह मानिनी तदपि लोकयेति ब्रुवन् विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

6

स्वरूप रसमन्दिरं भवसि मन्मुदामास्पदं त्वमत्र पुरुषोत्तमे व्रजभुवीव मे वर्तसे। इति स्वपरिरम्भणैः पुलकिनं व्यधात् तं च यो विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

7

स्वरूप किमपीक्षितं क्व नु विभो निशि स्वप्नतः प्रभो कथय किम् नु तम् नवयुवा वराम्भोधरः। व्यधात् किमयमीक्ष्यते किमु न हीत्यगात् तां दशां विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

8

स्वरूप मम नेत्रयोः पुरत एव कृष्णो हसन्न् अपैति न करग्रहं बत ददाति हा किं सखे। इति स्खलति धावति श्वसिति घूर्णते यः सदा विराजतु चिराय मे हृदि स गौरचन्द्रः प्रभुः॥

9

स्वरूपचरितामृतं किल महाप्रभोरष्टकं रहस्यतममद्भुतं पठति यः कृती प्रत्यहम्। स्वरूपपरिवारतां नयति ता शचीनन्दनो घनप्रणयमाधुरीं स्वपदयोः समास्वादयन्॥

10

इति श्रीविश्वनाथचक्रवर्तीठाकुरविरचितं महाप्रभोराष्टकं सम्पूर्णम् ।॥