Shri Kartikeyashtakam

Ashtakam

1

ॐ श्रीगणेशाय नमः। अगस्त्य उवाच- नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय। षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय॥

2

नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्। दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य॥

3

अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय। अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय॥

4

नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय। हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे॥

5

तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय। सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः॥

6

नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये। बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय॥

7

मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय। नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये॥

8

सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय। स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु॥

9

इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम्॥