Prithvidhararajaputryashtakam
Ashtakam
1
ज्ञात्वापि दोषान्विषयेषु शब्दरसादिमेष्वप्रतिबद्धतर्षम्। आकारमात्रात्परहंसरूपं मां पाहि पृथ्वीधरराजपुत्रि॥
2
विवेकवैराग्यशमादिषट्कमुमुक्षुतागन्धलवानभिज्ञम्। नक्तन्दिवं स्वोदरपूरणेच्छुं मां पाहि पुथ्वीधरराजपुत्रि॥
3
काषायवस्त्रेण करात्तदण्डकमण्डलुभ्यां जपमालया च। विभ्रामयन्तं गृहिणां कदम्बं मां पाहि पृथ्वीधरराजपुत्रि॥
4
वेदान्तवाक्यानि मुधोच्चरन्तं तदर्थजातं बहु वर्णयन्तम्। कदापि न ध्यातपरात्मतत्त्वं मां पाहि पृथ्वीधरराजपुत्रि॥
5
सुवर्णतन्तूज्ज्वलचेलकामं यानेषु मानेषु विवृद्धरागम्। अङ्गीकृतानेकसुमित्रशत्रुं मां पाहि पृथ्वीधरराजपुत्रि॥
6
भोगा अनेका मनसाप्यलभ्या भूयासुरित्यन्वहमीहमानम्। गुरूत्तमाराधनदूरचित्तं मां पाहि पृथ्वीधरराजपुत्रि॥
7
कुतो यतेरस्य शरीरमानधनाभिमानः सततं दुरन्तः। अशेषलोकैरिति निन्द्यमानं मां पाहि पुथ्वीधरराजपुत्रि॥
8
निवारिताशेषमहाघवृन्दैरव्याजकारुण्यसुधातरङ्गैः। अपाङ्गपातैरवलोकयन्ती मां पाहि पूरथ्वीधरराजपुत्रि॥
9
इदं हि पृथ्वीधरराजपुत्रीपादारविन्दार्पितमानसेन। कर्मन्दिना निर्मितमष्टकं यः पठेत्स भूयादखिलेष्टगेहम्॥