Shri Ganesha Ashtakam
Ashtakam
1
गिरिस्वामिकन्यावराङ्गे वसन्तं सुरस्वामिनं केलिरूपं हसन्तम्। लघुस्थूलविघ्नं विनिनन्तमाओं सदानन्दरूपं गणेशं भजेऽहम्॥
2
अजं तुन्दिलं व्योमधर्मोपमेयं भृशं दन्तपाणिं सुजातैकदन्तम्। गले हास्तिकं नागयज्ञोपवीतं सदानन्दरूपं गणेशं भजेऽहम्॥
3
विभुं निर्मलं शर्वपुत्रं सुरेशं (गौरिपुत्रं) शिवं शूलिवत्रा गणेशानमीशम्। कणत्किङ्किणीनालपादौ वहन्तं सदानन्दरूपं गणेशं भजेऽहम्॥
4
दौर्वेष्टितं विघ्नविध्वंसुवर्गैः सुरैर्मण्डितैर्यज्ञयज्ञोत्तमाङ्गम्। गुणातीतमव्यक्तमेकं तुरीयं सदानन्दरूपं गणेशं भजेऽहम॥
5
नरं सिन्धुरं पञ्चवक्त्रं विचित्रं वयोयोगिनं भोगनाथं महेशम्। करं कारिणं कामिनं नागरूपं सदानन्दरूपं गणेशं भजेऽहम्॥
6
मुदा हायनं लोककर्तारमाद्यं (लोकस्रष्टारमाद्यं) लसत्केतुना बद्धहस्तैकपोतम्। सदोमालिनं देवलोकैकपूतं सदानन्दरूपं गणेशं भजेऽहम्॥
7
जगत्कारणं तर्कवेदान्तवेद्यं मुदा योगगम्यं विशुद्धाट्टहासम्। शरण्यं वरेण्यं विशुद्धं तमाचं सदानन्दरूपं गणेशं भजेऽहम्॥
8
प्रियासिद्धिभाजे धिया वामभागे लसन्माद्विकावामदेवं त्रिणेत्रम्। अमोघं सुरेशं महेशानमीशं सदानन्दरूपं गणेशं भजेऽहम्॥
9
इति श्रीगणेशाष्टकं सम्पूर्णम्॥