Shri Jogulamba Ashtakam
Ashtakam
1
महायोगपीठस्थले तुङ्गभद्रा तटे सूक्ष्मकाश्यां सदासंवसन्तीम्। महायोगिब्रह्मेशवामाङ्कसंस्थां शरच्चन्द्रबिम्बां भजरे जोगुलाम्बाम्॥
2
ज्वलद्रत्नवैढूर्यमुक्ताप्रवालः प्रवेणयस्थगाङ्गेयकोटीरशोभाम्। सुकाश्मीररेखाप्रभाख्यां स्वफाले शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम्॥
3
स्वसौन्दर्यमन्दस्मितामिन्दुवक्त्रां रसत्कज्जलालिप्तपद्माभनेत्राम्। परां पार्वतीं विद्युदाबासगात्रां शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम्॥
4
घनश्यामलापादसंलोकवेणीं मनशङ्करारामपीयूषवाणीम्। शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं शरचन्द्रबिम्बा भजे जोगुलाम्बाम्॥
5
सुधापूर्णगाङ्गेयकुम्भस्तनाड्यां लसत्पीतकौशेयवस्त्रां स्वकट्याम्। गले रत्नमुक्तावलीपुष्पहारां शरचन्द्रबिम्बा भजे जोगुलाम्बाम्॥
6
शिवां शाङ्करीं सर्वकल्याणशीलां भवानीं भवाम्भोनिधेर्धिव्यनाकाम्। कुमारीं कुलोत्तारिणीमादिविद्यां शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम्॥
7
चलत्किङ्किणीनूपुरापादपद्मां सुरेन्द्रैर्मगेन्द्रैर्महायोगिबृन्दैः। सदास्तूयमानां परं वेदविद्भिः शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम्॥
8
हरे सोदरीं हव्यवाहास्वरूपां प्रसन्नं प्रपन्नार्तिहन्त्रीं प्रसिद्धाम्। महासिद्धिबुद्ध्यादिवन्द्यां परेशीं शरच्चन्द्रबिम्बा भजे जोगुलाम्बाम्॥
9
इदं जोगुलाम्भाष्टकं यः पठेद्वा प्रभाते निशार्देथवा शुद्धचित्तः। पृथिव्यां परं सर्वभोगांश्च भुक्त्या श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः॥